Chapter 13
The Field and its knower

Lyrics :

Verse 11

मयि चानन्ययोगेन
भक्तिरव्यभिचारिणी।
विविक्तदेशसेवित्वम्
अरतिर्जनसंसदि॥

Verse 12

अध्यात्मज्ञाननित्यत्वम्
तत्त्वज्ञानार्थदर्शनम्।
एतज्ज्ञानमिति प्रोक्तम्
अज्ञानं यदतोऽन्यथा॥

Verse 13

ज्ञेयं यत्तत्प्रवक्ष्यामि
यज्ज्ञात्वामृतमश्नुते।
अनादिमत्परं ब्रह्म
न सत्तनासदुच्यते॥

Verse 14

सर्वतः पाणिपादं तत्
सर्वतोऽक्षिशिरोमुखम्।
सर्वतः श्रुतिमल्लोके
सर्वमावृत्य तिष्ठति॥

Verse 15

सर्वेन्द्रियगुणाभासम्
सर्वेन्द्रियविवर्जितम्।
असक्तं सर्वभृच्चैव
निर्गुणं गुणभोक्तृ च॥

Verse 16

बहिरन्तश्च भूतानाम्
अचरं चरमेव च।
सूक्ष्मत्वात्तदविज्ञेयम्
दूरस्थं चान्तिके च तत्॥

Verse 17

अविभक्तं च भूतेषु
विभक्तमिव च स्थितम्।
भूतभर्तृ च तज्ज्ञेयम्
ग्रसिष्णु प्रभविष्णु च॥

Verse 18

ज्योतिषामपि तज्ज्योतिः
तमसः परमुच्यते।
ज्ञानं ज्ञेयं ज्ञानगम्यम्
हृदि सर्वस्य विष्ठितम्॥

Verse 19

इति क्षेत्रं तथा ज्ञानम्
ज्ञेयं चोक्तं समासतः।
मद्भक्त एतद्विज्ञाय
मद्भावायोपपद्यते॥

Verse 20

प्रकृतिं पुरुषं चैव
विद्‌ध्यनादी उभावपि।
विकारांश्च गुणांश्चैव
विद्धि प्रकृतिसम्भवान्॥