Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Gītā Chanting
Chapter 13
Chapter 13
The Field and its knower
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-35
Verse 21
कार्यकरणकर्तृत्वे हेतुः प्रकृतिरुच्यते। पुरुषः सुखदुःखानाम् भोक्तृत्वे हेतुरुच्यते॥
Expand / Collapse
Verse 22
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्। कारणं गुणासङ्गोऽस्य सदसद्योनिजन्मसु॥
Expand / Collapse
Verse 23
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः। परमात्मेति चाप्युक्तः देहेऽस्मिन्पुरुषः परः॥
Expand / Collapse
Verse 24
य एवं वेत्ति पुरुषम् प्रकृतिं च गुणैः सह। सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते॥
Expand / Collapse
Verse 25
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना। अन्ये साङ्ख्येनयोगेन कर्मयोगेन चापरे॥
Expand / Collapse
Verse 26
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते। तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः॥
Expand / Collapse
Verse 27
यावत्सञ्जायते किञ्चित् सत्त्वं स्थावरजङ्गमम्। क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ॥
Expand / Collapse
Verse 28
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तम् यः पश्यति स पश्यति॥
Expand / Collapse
Verse 29
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्। न हिनस्त्यात्मनात्मानम् ततो याति परां गतिम्॥
Expand / Collapse
Verse 30
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः। यः पश्यति तथात्मानम् अकर्तारं स पश्यति॥
Expand / Collapse
Prev
Next