Chapter 13
The Field and its knower

Lyrics :

Verse 31

यदा भूतपृथग्भावम्
एकस्थमनुपश्यति।
तत एव च विस्तारम्
ब्रह्म सम्पद्यते तदा॥

Verse 32

अनादित्वान्निर्गुणत्वात्
परमात्मायमव्ययः।
शरीरस्थोऽपि कौन्तेय
न करोति न लिप्यते॥

Verse 33

यथा सर्वगतं सौक्ष्म्यात्
आकाशं नोपलिप्यते।
सर्वत्रावस्थितो देहे
तथात्मा नोपलिप्यते॥

Verse 34

यथा प्रकाशयत्येकः
कृत्स्नं लोकमिमं रविः।
क्षेत्रं क्षेत्री तथा कृत्स्नम्
प्रकाशयति भारत॥

Verse 35

क्षेत्रक्षेत्रज्ञयोरेवम्
अन्तरं ज्ञानचक्षुषा।
भूतप्रकृतिमोक्षं च
ये विदुर्यान्ति ते परम्॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायाम् योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम
त्रयोदशोऽध्यायः॥