Chapter 13
The Field and its knower

Lyrics :

Introduction

ॐ श्रीपरमात्मने नमः।
अथ त्रयोदशोऽध्यायः।
क्षेत्रक्षेत्रज्ञविभागयोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

अर्जुन उवाच।
प्रकृतिं पुरुषं चैव
क्षेत्रं क्षेत्रज्ञमेव च।
एतद्वेदितुमिच्छामि
ज्ञानं ज्ञेयं च केशव॥

Verse 2

श्रीभगवानुवाच।
इदं शरीरं कौन्तेय
क्षेत्रमित्यभिधीयते।
एतद्योवेत्ति तं प्राहुः
क्षेत्रज्ञ इति तद्विदः॥

Verse 3

क्षेत्रज्ञं चापि मां विद्धि
सर्वक्षेत्रेषु भारत।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानम्
यत्तज्ज्ञानं मतं मम॥

Verse 4

तत्क्षेत्रं यच्च यादृक्‌च
यद्विकारि यतश्च यत्।
स च यो यत्प्रभावश्च
तत्समासेन मे शृणु॥

Verse 5

ऋषिभिर्बहुधा गीतम्
छन्दोभिर्विविधैः पृथक्।
ब्रह्मसूत्रपदैश्चैव
हेतुमद्भिर्विनिश्चितैः॥

Verse 6

महाभूतान्यहङ्कारः
बुद्धिरव्यक्तमेव च।
इन्द्रियाणि दशैकं च
पञ्चचेन्द्रियगोचराः॥

Verse 7

इच्छा द्वेषः सुखं दुःखम्
सङ्घातश्चेतना धृतिः।
एतत्क्षेत्रं समासेन
सविकारमुदाहृतम्॥

Verse 8

अमानित्वमदम्भित्वम्
अहिंसा क्षान्तिरार्जवम्।
आचार्योपासनं शौचम्
स्थैर्यमात्मविनिग्रहः॥

Verse 9

इन्द्रियार्थेषु वैराग्यम्
अनहङ्कार एव च।
जन्ममृत्युजराव्याधि-
दुःखदोषानुदर्शनम्॥

Verse 10

असक्तिरनभिष्वङ्गः
पुत्रदारगृहादिषु।
नित्यं च समचित्तत्वम्
इष्टानिष्टोपपत्तिषु॥