Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Gītā Chanting
Chapter 2
Chapter 2
Yoga of Knowledge
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-40
41-50
51-60
61-72
Verse 31
स्वधर्ममपि चावेक्ष्य
न विकम्पितुमर्हसि।
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्
क्षत्रियस्य न विद्यते॥
Expand / Collapse
Verse 32
यदृच्छया चोपपन्नम्
स्वर्गद्वारमपावृतम्।
सुखिनः क्षत्रियाः पार्थ
लभन्ते युद्धमीदृशम्॥
Expand / Collapse
Verse 33
अथ चेत्त्वमिमं धर्म्यम्
सङ्ग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च
हित्वा पापमवाप्स्यसि॥
Expand / Collapse
Verse 34
अकीर्तिं चापि भूतानि
कथयिष्यन्ति तेऽव्ययाम्।
सम्भावितस्य चाकीर्तिः
मरणादतिरिच्यते॥
Expand / Collapse
Verse 35
भयाद्रणादुपरतम्
मंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतः
भूत्वा यास्यसि लाघवम्॥
Expand / Collapse
Verse 36
अवाच्यवादांश्च बहून्
वदिष्यन्ति तवाहिताः।
निन्दन्तस्तव सामर्थ्यम्
ततो दुःखतरं नु किम्॥
Expand / Collapse
Verse 37
हतो वा प्राप्स्यसि स्वर्गम्
जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ठ कौन्तेय
युद्धाय कृतनिश्चयः॥
Expand / Collapse
Verse 38
सुखदुःखे समे कृत्वा
लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व
नैवं पापमवाप्स्यसि॥
Expand / Collapse
Verse 39
एषा तेऽभिहिता साङ्ख्ये
बुद्धिर्योगे त्विमां शृणु।
बुद्ध्या युक्तो यया पार्थ
कर्मबन्धं प्रहास्यसि॥
Expand / Collapse
Verse 40
नेहाभिक्रमनाशोऽस्ति
प्रत्यवायो न विद्यते।
स्वल्पमप्यस्य धर्मस्य
त्रायते महतो भयात्॥
Expand / Collapse
Prev
Next