Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Gītā Chanting
Chapter 2
Chapter 2
Yoga of Knowledge
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-40
41-50
51-60
61-72
Verse 61
तानि सर्वाणि संयम्य
युक्त आसीत मत्परः।
वशे हि यस्येन्द्रियाणि
तस्य प्रज्ञा प्रतिष्ठिता॥
Expand / Collapse
Verse 62
ध्यायतो विषयान्पुंसः
सङ्गस्तेषूपजायते।
सङ्गात्सञ्जायते कामः
कामात्क्रोधोऽभिजायते॥
Expand / Collapse
Verse 63
क्रोधाद्भवति सम्मोहः
सम्मोहात्स्मृतिविभ्रमः।
स्मृतिभ्रंशाद्बुद्धिनाशः
बुद्धिनाशात्प्रणश्यति॥
Expand / Collapse
Verse 64
रागद्वेषवियुक्तैस्तु
विषयानिन्द्रियैश्चरन्।
आत्मवश्यैर्विधेयात्मा
प्रसादमधिगच्छति॥
Expand / Collapse
Verse 65
प्रसादे सर्वदुःखानाम्
हानिरस्योपजायते।
प्रसन्नचेतसो ह्याशु
बुद्धिः पर्यवतिष्ठते॥
Expand / Collapse
Verse 66
नास्ति बुद्धिरयुक्तस्य
न चायुक्तस्य भावना।
न चाभावयतः शान्तिः
अशान्तस्य कुतः सुखम्॥
Expand / Collapse
Verse 67
इन्द्रियाणां हि चरताम्
यन्मनोऽनुविधीयते।
तदस्य हरति प्रज्ञाम्
वायुर्नावमिवाम्भसि॥
Expand / Collapse
Verse 68
तस्माद्यस्य महाबाहो
निगृहीतानि सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यः
तस्य प्रज्ञा प्रतिष्ठिता॥
Expand / Collapse
Verse 69
या निशा सर्वभूतानाम्
तस्यां जागर्ति संयमी।
यस्यां जाग्रति भूतानि
सा निशा पश्यतो मुनेः॥
Expand / Collapse
Verse 70
आपूर्यमाणमचलप्रतिष्ठम्
समुद्रमापः प्रविशन्ति यद्वत्।
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी॥
Expand / Collapse
Verse 71
विहाय कामान्यः सर्वान्
पुमांश्चरति निःस्पृहः।
निर्ममो निरहङ्कारः
स शान्तिमधिगच्छति॥
Expand / Collapse
Verse 72
एषा ब्राह्मी स्थितिः पार्थ
नैनां प्राप्य विमुह्यति।
स्थित्वास्यामन्तकालेऽपि
ब्रह्मनिर्वाणमृच्छति॥
Expand / Collapse
Conclusion
ॐ तत् सत् इति
श्रीमद्भगवद्गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
साङ्ख्ययोगो नाम
द्वितीयोऽध्यायः॥
Prev
Next