Chapter 2
Yoga of Knowledge

Lyrics :

Verse 41

व्यवसायात्मिका बुद्धिः
एकेह कुरुनन्दन।
बहुशाखा ह्यनन्ताश्च
बुद्धयोऽव्यवसायिनाम्॥

Verse 42

यामिमां पुष्पितां वाचम्
प्रवदन्त्यविपश्चितः।
वेदवादरताः पार्थ
नान्यदस्तीति वादिनः॥

Verse 43

कामात्मानः स्वर्गपराः
जन्मकर्मफलप्रदाम्।
क्रियाविशेषबहुलाम्
भोगैश्वर्यगतिं प्रति॥

Verse 44

भोगैश्वर्यप्रसक्तानाम्
तयाऽपहृतचेतसाम्।
व्यवसायात्मिका बुद्धिः
समाधौ न विधीयते॥

Verse 45

त्रैगुण्यविषया वेदाः
निस्त्रैगुण्यो भवार्जुन।
निर्द्वन्द्वो नित्यसत्त्वस्थः
निर्योगक्षेम आत्मवान्॥

Verse 46

यावानर्थ उदपाने
सर्वतः सम्प्लुतोदके।
तावान्सर्वेषु वेदेषु
ब्राह्मणस्य विजानतः॥

Verse 47

कर्मण्येवाधिकारस्ते
मा फलेषु कदाचन।
मा कर्मफलहेतुर्भूः
मा ते सङ्गोऽस्त्वकर्मणि॥

Verse 48

योगस्थः कुरु कर्माणि
सङ्गं त्यक्त्वा धनञ्जय।
सिद्‌ध्यसिद्‌ध्योः समो भूत्वा
समत्वं योग उच्यते॥

Verse 49

दूरेण ह्यवरं कर्म
बुद्धियोगाद्धनञ्जय।
बुद्धौ शरणमन्विच्छ
कृपणाः फलहेतवः॥

Verse 50

बुद्धियुक्तो जहातीह
उभे सुकृतदुष्कृते।
तस्माद्योगाय युज्यस्व
योगः कर्मसु कौशलम्॥