Chapter 2
Yoga of Knowledge

Lyrics :

Introduction

[ ॐ श्रीपरमात्मने नमः। ]
अथ द्वितीयोऽध्यायः।
साङ्ख्ययोगः।

Note: It is recommended to include the salutation and the chapter name, when an individual chapter is being chanted.

Verse 1

सञ्जय उवाच।
तं तथा कृपयाविष्टम्
अश्रुपूर्णाकुलेक्षणम्।
विषीदन्तमिदं वाक्यम्
उवाच मधुसूदनः॥

Verse 2

श्रीभगवानुवाच।
कुतस्त्वा कश्मलमिदम्
विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यम्
अकीर्तिकरमर्जुन॥

Verse 3

क्लैब्यं मा स्म गमः पार्थ
नैतत्त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यम्
त्यक्त्वोत्तिष्ठ परन्तप॥

Verse 4

अर्जुन उवाच।
कथं भीष्ममहं सङ्ख्ये
द्रोणं च मधुसूदन।
इषुभिः प्रतियोत्स्यामि
पूजार्हावरिसूदन॥

Verse 5

गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान्‌रुधिरप्रदिग्धान्॥

Verse 6

न चैतद्विद्मः कतरन्नो गरीयः
यद्वा जयेम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषामः
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः॥

Verse 7

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसम्मूढचेताः।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्॥

Verse 8

न हि प्रपश्यामि ममापनुद्यात्
यच्छोकमुच्छोषणमिन्द्रियाणाम्।
अवाप्य भूमावसपत्नमृद्धम्
राज्यं सुराणामपि चाधिपत्यम्॥

Verse 9

सञ्जय उवाच।
एवमुक्त्वा हृषीकेशम्
गुडाकेशः परन्तपः।
न योत्स्य इति गोविन्दम्
उक्त्वा तूष्णीं बभूव ह॥

Verse 10

तमुवाच हृषीकेशः
प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये
विषीदन्तमिदं वचः॥