Chapter 2
Yoga of Knowledge

Lyrics :

Verse 21

वेदाविनाशिनं नित्यम्
य एनमजमव्ययम्।
कथं स पुरुषः पार्थ
कं घातयति हन्ति कम्॥

Verse 22

वासांसि जीर्णानि यथा विहाय
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णानि
अन्यानि संयाति नवानि देही॥

Verse 23

नैनं छिन्दन्ति शस्त्राणि
नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापः
न शोषयति मारुतः॥

Verse 24

अच्छेद्योऽयमदाह्योऽयम्
अक्लेद्योऽशोष्य एव च।
नित्यः सर्वगतः स्थाणुः
अचलोऽयं सनातनः॥

Verse 25

अव्यक्तोऽयमचिन्त्योऽयम्
अविकार्योऽयमुच्यते।
तस्मादेवं विदित्वैनम्
नानुशोचितुमर्हसि॥

Verse 26

अथ चैनं नित्यजातम्
नित्यं वा मन्यसे मृतम्।
तथापि त्वं महाबाहो
नैवं शोचितुमर्हसि॥

Verse 27

जातस्य हि ध्रुवो मृत्युः
ध्रुवं जन्म मृतस्य च।
तस्मादपरिहार्येऽर्थे
न त्वं शोचितुमर्हसि॥

Verse 28

अव्यक्तादीनि भूतानि
व्यक्तमध्यानि भारत।
अव्यक्तनिधनान्येव
तत्र का परिदेवना॥

Verse 29

आश्चर्यवत्पश्यति कश्चिदेनम्
आश्चर्यवद्वदति तथैव चान्यः।
आश्चर्यवच्‍चैनमन्यः शृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित्॥

Verse 30

देही नित्यमवध्योऽयम्
देहे सर्वस्य भारत।
तस्मात्सर्वाणि भूतानि
न त्वं शोचितुमर्हसि॥