Chapter 2
Yoga of Knowledge

Lyrics :

Verse 11

श्रीभगवानुवाच।
अशोच्यानन्वशोचस्त्वम्
प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च
नानुशोचन्ति पण्डिताः॥

Verse 12

न त्वेवाहं जातु नासम्
न त्वं नेमे जनाधिपाः।
न चैव न भविष्यामः
सर्वे वयमतः परम्॥

Verse 13

देहिनोऽस्मिन्यथा देहे
कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिः
धीरस्तत्र न मुह्यति॥

Verse 14

मात्रास्पर्शास्तु कौन्तेय
शीतोष्णसुखदुःखदाः।
आगमापायिनोऽनित्याः
तांस्तितिक्षस्व भारत॥

Verse 15

यं हि न व्यथयन्त्येते
पुरुषं पुरुषर्षभ।
समदुःखसुखं धीरम्
सोऽमृतत्वाय कल्पते॥

Verse 16

नासतो विद्यते भावः
नाभावो विद्यते सतः।
उभयोरपि दृष्टोऽन्तः
त्वनयोस्तत्त्वदर्शिभिः॥

Verse 17

अविनाशि तु तद्विद्धि
येन सर्वमिदं ततम्।
विनाशमव्ययस्यास्य
न कश्चित्कर्तुमर्हति॥

Verse 18

अन्तवन्त इमे देहाः
नित्यस्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य
तस्माद्युध्यस्व भारत॥

Verse 19

य एनं वेत्ति हन्तारम्
यश्चैनं मन्यते हतम्।
उभौ तौ न विजानीतः
नायं हन्ति न हन्यते॥

Verse 20

न जायते म्रियते वा कदाचित्
नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणः
न हन्यते हन्यमाने शरीरे॥