Chapter 2
Yoga of Knowledge

Lyrics :

Verse 51

कर्मजं बुद्धियुक्ता हि
फलं त्यक्त्वा मनीषिणः।
जन्मबन्धविनिर्मुक्ताः
पदं गच्छन्त्यनामयम्॥

Verse 52

यदा ते मोहकलिलम्
बुद्धिर्व्यतितरिष्यति।
तदा गन्तासि निर्वेदम्
श्रोतव्यस्य श्रुतस्य च॥

Verse 53

श्रुतिविप्रतिपन्ना ते
यदा स्थास्यति निश्चला।
समाधावचला बुद्धिः
तदा योगमवाप्स्यसि॥

Verse 54

अर्जुन उवाच।
स्थितप्रज्ञस्य का भाषा
समाधिस्थस्य केशव।
स्थितधीः किं प्रभाषेत
किमासीत व्रजेत किम्॥

Verse 55

श्रीभगवानुवाच।
प्रजहाति यदा कामान्
सर्वान् पार्थ मनोगतान्।
आत्मन्येवात्मना तुष्टः
स्थितप्रज्ञस्तदोच्यते॥

Verse 56

दुःखेष्वनुद्विग्नमनाः
सुखेषु विगतस्पृहः।
वीतरागभयक्रोधः
स्थितधीर्मुनिरुच्यते॥

Verse 57

यः सर्वत्रानभिस्नेहः
तत्तत्प्राप्य शुभाशुभम्।
नाभिनन्दति न द्वेष्टि
तस्य प्रज्ञा प्रतिष्ठिता॥

Verse 58

यदा संहरते चायम्
कूर्मोऽङ्गानीव सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यः
तस्य प्रज्ञा प्रतिष्ठिता॥

Verse 59

विषया विनिवर्तन्ते
निराहारस्य देहिनः।
रसवर्जं रसोऽप्यस्य
परं दृष्ट्वा निवर्तते॥

Verse 60

यततो ह्यपि कौन्तेय
पुरुषस्य विपश्चितः।
इन्द्रियाणि प्रमाथीनि
हरन्ति प्रसभं मनः॥