Skip to content
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Menu
Home
Resources
Gītā Chanting
Events
Gita Fest 2026
Gita Fest 2024
About
Gītā Chanting
Chapter 18
Chapter 18
Liberation through renunciation
Lyrics :
Sanskrit
Sanskrit
English
1-10
11-20
21-30
31-40
41-50
51-60
61-70
71-78
Verse 11
न हि देहभृता शक्यम्
त्यक्तुं कर्माण्यशेषतः।
यस्तु कर्मफलत्यागी
स त्यागीत्यभिधीयते॥
Expand / Collapse
Verse 12
अनिष्टमिष्टं मिश्रं च
त्रिविधं कर्मणः फलम्।
भवत्यत्यागिनां प्रेत्य
न तु सन्न्यासिनां क्वचित्॥
Expand / Collapse
Verse 13
पञ्चैतानि महाबाहो
कारणानि निबोध मे।
साङ्ख्ये कृतान्ते प्रोक्तानि
सिद्धये सर्वकर्मणाम्॥
Expand / Collapse
Verse 14
अधिष्ठानं तथा कर्ता
करणं च पृथग्विधम्।
विविधाश्च पृथक्चेष्टाः
दैवं चैवात्र पञ्चमम्॥
Expand / Collapse
Verse 15
शरीरवाङ्मनोभिर्यत्
कर्म प्रारभते नरः।
न्याय्यं वा विपरीतं वा
पञ्चैते तस्य हेतवः॥
Expand / Collapse
Verse 16
तत्रैवं सति कर्तारम्
आत्मानं केवलं तु यः।
पश्यत्यकृतबुद्धित्वात्
न स पश्यति दुर्मतिः॥
Expand / Collapse
Verse 17
यस्य नाहङ्कृतो भावः
बुद्धिर्यस्य न लिप्यते।
हत्वाऽपि स इमाल्ँलोकान्
न हन्ति न निबध्यते॥
Expand / Collapse
Verse 18
ज्ञानं ज्ञेयं परिज्ञाता
त्रिविधा कर्मचोदना।
करणं कर्म कर्तेति
त्रिविधःकर्मसंग्रहः॥
Expand / Collapse
Verse 19
ज्ञानं कर्म च कर्ता च
त्रिधैव गुणभेदतः।
प्रोच्यते गुणसङ्ख्याने
यथावच्छृणु तान्यपि॥
Expand / Collapse
Verse 20
सर्वभूतेषु येनैकम्
भावमव्ययमीक्षते।
अविभक्तं विभक्तेषु
तज्ज्ञानं विद्धि सात्त्विकम्॥
Expand / Collapse
Prev
Next