Chapter 18
Liberation through renunciation

Lyrics :

Verse 21

पृथक्त्वेन तु यज्ज्ञानम् 
नानाभावान्पृथग्विधान्।
वेत्ति सर्वेषु भूतेषु 
तज्ज्ञानं विद्धि राजसम्॥

Verse 22

यत्तु कृत्स्नवदेकस्मिन्
कार्ये सक्तमहैतुकम्।
अतत्त्वार्थवदल्पं च
तत्तामसमुदाहृतम्॥

Verse 23

नियतं सङ्गरहितम्
अरागद्वेषतःकृतम्।
अफलप्रेप्सुना कर्म
यत्तत्सात्त्विकमुच्यते॥

Verse 24

यत्तु कामेप्सुना कर्म
साहङ्कारेण वा पुनः।
क्रियते बहुलायासम्
तद्राजसमुदाहृतम्॥

Verse 25

अनुबन्धं क्षयं हिंसाम्
अनपेक्ष्य च पौरुषम्।
मोहादारभ्यते कर्म
यत्तत्तामसमुच्यते॥

Verse 26

मुक्तसङ्गोऽनहंवादी
धृत्युत्साहसमन्वितः।
सिद्‌ध्यसिद्‌ध्योर्निर्विकारः
कर्ता सात्त्विक उच्यते॥

Verse 27

रागी कर्मफलप्रेप्सुः
लुब्धो हिंसात्मकोऽशुचिः।
हर्षशोकान्वितःकर्ता
राजसःपरिकीर्तितः॥

Verse 28

अयुक्तःप्राकृतःस्तब्धः
शठो नैष्कृतिकोऽलसः।
विषादी दीर्घसूत्री च
कर्ता तामस उच्यते॥

Verse 29

बुद्धेर्भेदं धृतेश्चैव
गुणतस्त्रिविधं शृणु।
प्रोच्यमानमशेषेण
पृथक्त्वेन धनञ्जय॥

Verse 30

प्रवृत्तिं च निवृत्तिं च
कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेत्ति
बुद्धिःसा पार्थ सात्त्विकी॥