Chapter 18
Liberation through renunciation

Lyrics :

Verse 61

ईश्वरःसर्व भूतानाम्
हृद्देशेऽर्जुन तिष्ठति।
भ्रामयन्सर्वभूतानि
यन्त्रारूढानि मायया॥

Verse 62

तमेव शरणं गच्छ
सर्वभावेन भारत॥
तत्प्रसादात्परां शान्तिम्
स्थानं प्राप्स्यसि शाश्वतम्॥

Verse 63

इति ते ज्ञानमाख्यातम्
गुह्याद् गुह्यतरं मया।
विमृश्यैतदशेषेण
यथेच्छसि तथा कुरु॥

Verse 64

सर्वगुह्यतमं भूयः
शृणु मे परमं वचः।
इष्टोऽसि मे दृढमिति
ततो वक्ष्यामि ते हितम्॥

Verse 65

मन्मना भव मद्‍भक्‍तः
मद्याजी मां नमस्कुरु।
मामेवैष्यसि सत्यं ते
प्रतिजाने प्रियोऽसि मे॥

Verse 66

सर्वधर्मान्परित्यज्य
मामेकं शरणं व्रज।
अहं त्वा सर्वपापेभ्यः
मोक्षयिष्यामि मा शुचः॥

Verse 67

इदं ते नातपस्काय
नाभक्‍ताय कदाचन।
न चाशुश्रूषवे वाच्यम्
न च मां योऽभ्यसूयति॥

Verse 68

य इमं परमं गुह्यम्
मद्‍भक्‍तेष्वभिधास्यति।
भक्तिं मयि परां कृत्वा
मामेवैष्यत्यसंशयः॥

Verse 69

न च तस्मान्मनुष्येषु
कश्चिन्मे प्रियकृत्तमः।
भविता न च मे तस्मात्
अन्यः प्रियतरो भुवि॥

Verse 70

अध्येष्यते च य इमम्
धर्म्यं संवादमावयोः।
ज्ञानयज्ञेन तेनाहम्
इष्टःस्यामिति मे मतिः॥