Chapter 18
Liberation through renunciation

Lyrics :

Verse 41

ब्राह्मणक्षत्रियविशाम्
शूद्राणां च परन्तप।
कर्माणि प्रविभक्तानि
स्वभावप्रभवैर्गुणैः॥

Verse 42

शमो दमस्तपःशौचम्
क्षान्तिरार्जवमेव च।
ज्ञानं विज्ञानमास्तिक्यम्
ब्रह्मकर्म स्वभावजम्॥

Verse 43

शौर्यं तेजो धृतिर्दाक्ष्यम्
युद्धे चाप्यपलायनम्।
दानमीश्वरभावश्च
क्षात्रं कर्म स्वभावजम्॥

Verse 44

कृषिगौरक्ष्यवाणिज्यम्
वैश्यकर्म स्वभावजम्।
परिचर्यात्मकं कर्म
शूद्रस्यापि स्वभावजम्॥

Verse 45

स्वे स्वे कर्मण्यभिरतः
संसिद्धिं लभते नरः।
स्वकर्मनिरतःसिद्धिम्
यथा विन्दति तच्छृणु॥

Verse 46

यतः प्रवृत्तिर्भूतानाम्
येन सर्वमिदं ततम्।
स्वकर्मणा तमभ्यर्च्य
सिद्धिं विन्दति मानवः॥

Verse 47

श्रेयान्स्वधर्मो विगुणः
परधर्मात्स्वनुष्ठितात्।
स्वभावनियतं कर्म
कुर्वन्नाप्नोति किल्बिषम्॥

Verse 48

सहजं कर्म कौन्तेय
सदोषमपि न त्यजेत्।
सर्वारम्भा हि दोषेण
धूमेनाग्निरिवावृताः॥

Verse 49

असक्‍तबुद्धिःसर्वत्र
जितात्मा विगतस्पृहः।
नैष्कर्म्यसिद्धिं परमाम्
सन्न्यासेनाधिगच्छति॥

Verse 50

सिद्धिं प्राप्तो यथा ब्रह्म
तथाप्नोति निबोध मे।
समासेनैव कौन्तेय
निष्ठा ज्ञानस्य या परा॥