Chapter 18
Liberation through renunciation

Lyrics :

Introduction

[ ॐ श्रीपरमात्मने नमः। ]
अथ अष्टादशोऽध्यायः।
मोक्षसन्न्यासयोगः।

Verse 1

अर्जुन उवाच।
सन्न्यासस्य महाबाहो
तत्त्वमिच्छामि वेदितुम्।
त्यागस्य च हृषीकेश
पृथक्‍केशिनिषूदन॥

Verse 2

श्रीभगवानुवाच।
काम्यानां कर्मणां न्यासम्
सन्न्यासं कवयो विदुः।
सर्वकर्मफलत्यागम्
प्राहुस्त्यागं विचक्षणाः॥२॥

Verse 3

त्याज्यं दोषवदित्येके
कर्म प्राहुर्मनीषिणः।
यज्ञदानतपःकर्म
न त्याज्यमिति चापरे॥

Verse 4

निश्चयं शृणु मे तत्र
त्यागे भरतसत्तम।
त्यागो हि पुरुषव्याघ्र
त्रिविधःसंप्रकीर्तितः॥

Verse 5

यज्ञदानतपःकर्म
न त्याज्यं कार्यमेव तत्।
यज्ञो दानं तपश्चैव
पावनानि मनीषिणाम्॥

Verse 6

एतान्यपि तु कर्माणि
सङ्गं त्यक्‍त्वा फलानि च।
कर्तव्यानीति मे पार्थ
निश्चितं मतमुत्तमम्॥

Verse 7

नियतस्य तु संन्यासः
कर्मणो नोपपद्यते।
मोहात्तस्य परित्यागः
तामसः परिकीर्तितः॥

Verse 8

दुःखमित्येव यत्कर्म
कायक्लेशभयात्त्यजेत्।
स कृत्वा राजसं त्यागम्
नैव त्यागफलं लभेत्॥

Verse 9

कार्यमित्येव यत्कर्म
नियतं क्रियतेऽर्जुन।
सङ्गं त्यक्‍त्वा फलं चैव
स त्यागः सात्त्विको मतः॥

Verse 10

न द्वेष्‍ट्यकुशलं कर्म
कुशले नानुषज्जते।
त्यागी सत्त्वसमाविष्टः
मेधावी छिन्नसंशयः॥