Chapter 18
Liberation through renunciation

Lyrics :

Verse 51

बुद्‍ध्या विशुद्धया युक्‍तः
धृत्यात्मानं नियम्य च।
शब्दादीन्विषयांस्त्यक्‍त्वा
रागद्वेषौ व्युदस्य च॥

Verse 52

विविक्‍तसेवी लघ्वाशी
यतवाक्कायमानसः।
ध्यानयोगपरो नित्यम्
वैराग्यं समुपाश्रितः॥

Verse 53

अहङ्कारं बलं दर्पम्
कामं क्रोधं परिग्रहम्।
विमुच्य निर्ममःशान्तः
ब्रह्मभूयाय कल्पते॥

Verse 54

ब्रह्मभूतःप्रसन्नात्मा
न शोचति न काङ्क्षति।
समःसर्वेषु भूतेषु
मद्‍भक्‍तिं लभते पराम्॥

Verse 55

भक्‍त्या मामभिजानाति
यावान्यश्चास्मि तत्त्वतः।
ततो मां तत्त्वतो ज्ञात्वा
विशते तदनन्तरम्॥

Verse 56

सर्वकर्माण्यपि सदा
कुर्वाणो मद्‍व्यपाश्रयः।
मत्प्रसादादवाप्नोति
शाश्वतं पदमव्ययम्॥

Verse 57

चेतसा सर्वकर्माणि
मयि सन्न्यस्य मत्पर:।
बुद्धियोगमुपाश्रित्य
मच्चित्तःसततं भव॥

Verse 58

मच्चित्तः सर्वदुर्गाणि
मत्प्रसादात्तरिष्यसि।
अथ चेत्त्वमहङ्कारात्
न श्रोष्यसि विनङ्‍क्ष्यसि॥

Verse 59

यदहङ्कारमाश्रित्य
न योत्स्य इति मन्यसे।
मिथ्यैष व्यवसायस्ते
प्रकृतिस्त्वां नियोक्ष्यति॥

Verse 60

स्वभावजेन कौन्तेय
निबद्धःस्वेन कर्मणा।
कर्तुं नेच्छसि यन्मोहात्
करिष्यस्यवशोऽपि तत्॥