Chapter 18
Liberation through renunciation

Lyrics :

Verse 31

यया धर्ममधर्मं च
कार्यं चाकार्यमेव च।
अयथावत्प्रजानाति
बुद्धिःसा पार्थ राजसी॥

Verse 32

अधर्मं धर्ममिति या
मन्यते तमसावृता।
सर्वार्थान्विपरीतांश्च
बुद्धिःसा पार्थ तामसी॥

Verse 33

धृत्या यया धारयते
मनः प्राणेन्द्रियक्रियाः।
योगेनाव्यभिचारिण्या
धृतिःसा पार्थ सात्त्विकी॥

Verse 34

यया तु धर्मकामार्थान्
धृत्या धारयतेऽर्जुन।
प्रसङ्गेन फलाकाङ्क्षी
धृतिःसा पार्थ राजसी॥

Verse 35

यया स्वप्नं भयं शोकम्
विषादं मदमेव च।
न विमुञ्चति दुर्मेधाः 
धृतिःसा पार्थ तामसी॥

Verse 36

सुखं त्विदानीं त्रिविधम्
शृणु मे भरतर्षभ।
अभ्यासाद्रमते यत्र
दुःखान्तं च निगच्छति॥

Verse 37

यत्तदग्रे विषमिव
परिणामेऽमृतोपमम्।
तत्सुखं सात्त्विकं प्रोक्तम्
आत्मबुद्धिप्रसादजम्॥

Verse 38

विषयेन्द्रियसंयोगात्
यत्तदग्रेऽमृतोपमम्।
परिणामे विषमिव
तत्सुखं राजसं स्मृतम्॥

Verse 39

यदग्रे चानुबन्धे च
सुखं मोहनमात्मनः।
निद्रालस्यप्रमादोत्थम्
तत्तामसमुदाहृतम्॥

Verse 40

न तदस्ति पृथिव्यां वा
दिवि देवेषु वा पुनः।
सत्त्वं प्रकृतिजैर्मुक्तम्
यदेभिःस्यात्‍त्रिभिर्गुणैः॥