Chapter 18
Liberation through renunciation

Lyrics :

Verse 71

श्रद्धावाननसूयश्च
शृणुयादपि यो नरः।
सोऽपि मुक्तःशुभाल्ँलोकान्
प्राप्नुयात्पुण्यकर्मणाम्॥

Verse 72

कच्चिदेतच्छ्रुतं पार्थ
त्वयैकाग्रेण चेतसा।
कच्चिदज्ञानसम्मोहः
प्रनष्टस्ते धनञ्जय॥

Verse 73

अर्जुन उवाच।
नष्टो मोहःस्मृतिर्लब्धा
त्वत्प्रसादान्मयाऽच्युत।
स्थितोऽस्मि गतसन्देहः
करिष्ये वचनं तव॥

Verse 74

सञ्जय उवाच।
इत्यहं वासुदेवस्य
पार्थस्य च महात्मनः।
संवादमिममश्रौषम्
अद्‍भुतं रोमहर्षणम्॥

Verse 75

व्यासप्रसदाच्‍छ्रुतवान्
एतद्‍गुह्यमहं परम्
योगं योगेश्वरात्कृष्णात्
साक्षात्कथयतः स्वयम्॥

Verse 76

राजन् संस्मृत्य संस्मृत्य
संवादमिममद्‍भुतम्।
केशवार्जुनयोः पुण्यम्
हृष्यामि च मुहुर्मुहुः॥

Verse 77

तच्च संस्मृत्य संस्मृत्य
रूपमत्यद्‍भुतं हरेः।
विस्मयो मे महान्‍राजन्
हृष्यामि च पुनः पुनः॥

Verse 78

यत्र योगेश्वरः कृष्णः
यत्र पार्थो धनुर्धरः।
तत्र श्रीर्विजयो भूतिः
ध्रुवा नीतिर्मतिर्मम॥

Conclusion

ॐ तत् सत् इति
श्रीमद्‌भगवद्‌गीतासु उपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुनसंवादे
मोक्षसन्न्यासयोगो नाम
अष्टादशोऽध्यायः॥